Tuesday, March 10, 2020

संस्कृत कविता - फोक्सवैगन - डॉ हिमांशु गौड़

।।किं ब्रवाणि प्रभावं फोक्सवैगनस्य ।।
******

धनी मन्यते नम्यते सर्वकैस्स
गुणी मन्यते श्रीयतेऽहो जनैस्स
जायते स प्रभावान् भवेत्तद्धि यस्य
किं ब्रवाणि प्रभावं फोक्सवैगनस्य !!१!!

अहोऽद्याऽहमभूवं गण्यमान्येषु गण्यो-
ऽप्यहो नागरेष्वद्य लब्ध: पदश्च
मन्त्रिणस्तन्त्रिणो गन्त्रिकां मे विलोक्य
जयेद्गौडपाद! ब्रुवन्त्यद्य विद्वन्।।

इदं सन्महत्त्वं भवेद्वै धनस्य
किं ब्रवाणि प्रभावं फोक्सवैगनस्य ।।२।।

पुरा भिक्षुकैरप्यहं तर्जितो वा
क्वचिद् भण्डगुण्डैरहो लुण्ठितो वा
वदामीव नाद्य स्वदैन्यं हि कैश्चित् ।।

पात्रतामद्य यातोऽस्म्यहं सज्जनस्य
अहो सुप्रभाव: फोक्सवैगनस्य!!३!!

क्वचिद्दुर्गुणैर्धूम्रपानै: कदाचित्
क्वचिद्व्यर्थहिण्डप्रवृत्या रतश्च
पुरा मे हि दोष: प्रयातोऽद्य गुण्यं
धनित्वे सतीहे समं स्याद्धि पुण्यम्

लक्षमेकादशं जर्मनीनिर्मितस्य
पण्यमस्येह फिक्सं फोक्सवैगनस्य !!४!!

अहो मानितो बन्धुवर्गैरिदानीम्
पुनश्शोभितो बोद्धृवर्गैरिदानीम्
नाद्य किं सुष्ठु जातं च मे सुप्रियस्य
सदा सुप्रभाव: फोक्सवैगनस्य ।।५।।

No comments:

Post a Comment