नारी त्रिविधा यथा -
“योषितस्त्रिविधा ब्रह्मन् ! गृहिणां मूढचेतसाम् ।
साध्वी भोग्या च कुलटा ताः सर्व्वाः स्वार्थतत्पराः ।
परलोकभयात् साध्वी तथेह यशसात्मनः ।
कामस्नेहाच्च कुरुते भर्त्तुः सेवाञ्च सन्ततम् ॥ १ ॥
भोग्या भोग्यार्थिनी शश्वत् कामस्नेहेऽथ केवलम् ।
कुरुते पतिसेवाञ्च न च भोग्या दृढेक्षणम् ॥
वस्त्रालंकारसम्भोगं सुस्निग्धाहारमुत्तमम् ।
यावत् प्राप्नोति सा भोग्या तावच्च वशगा प्रिया ॥ २ ॥
कुलाङ्गारसमा नारी कुलटा कुलकामिनी ।
कपटात् कुरुते सेवां स्वामिनो न च भक्तितः ॥
सदा पुंयोगमाशंसुर्मनसा मदनातुरा ।
आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ॥
जारार्थे स्वपतिं तात ! हन्तुमिच्छति पुंश्चली ।
तस्यां यो विश्वसेन्मूढो जीवनन्तस्य निष्फलम् ॥
कथिता योषितः सर्व्वा उत्तमाधममध्यमाः ।
स्वात्मारामा विजानन्ति मनसा तां न पण्डिताः ॥” ३ ॥
तस्याः स्वभावो यथा -
“हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।
सुधोपमं सुमधुरं वचनं स्वार्थसिद्धये ॥
प्रकोपे विषतुल्यं तदनूहं शीलकुत्सितम् ।
दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म्म केवलम् ॥
तदा तासामविनयं प्रबलं साहसं परम् ।
ददौ कार्य्यच्छलात् कार्य्यं शश्वन्माया दूरत्यया ॥
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो !
आहारो द्बिगुणो नित्यं नैष्ठुर्य्यञ्च चतुर्गुणम् ।
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम् ॥
यत्रेमे दोषनिवहाः कास्था तत्र पितामह ! ।
का क्रीडा किं सुखं पुंसो विण्मूत्राश्रयवेश्मनि ॥
तेजः प्रनष्टं सम्भोगे दिवालापे यशःक्षयः ।
धनक्षयस्त्वतिप्रीतौ रत्यासक्तौ वपुःक्षयः ॥
साहित्ये पौरुषं नष्टं कलहे माननाशनम् ।
सर्व्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ॥
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ।
पुमान्नारीं वशीकर्त्तुं समर्थस्तावदेव हि ॥
रोगिणं निर्गुणं वृद्धं योषिन्नापेक्षते प्रियम् ।
लोकाचारतया तस्मै ददात्याहारमल्पकम् ॥”
इति ब्रह्मवैवर्त्तपुराणे प्रोक्तम्।।
No comments:
Post a Comment