Friday, April 10, 2020

व्याकरण महाभाष्य पस्पशाह्निक के कुछ प्रश्न और उनके उत्तर

(1) केषां शब्दानाम् इदम् अनुशासनम्?

उ.-लौकिकानां वैदिकानां च शब्दानाम् इदम् अनुशासनम्।ये शब्दा: लोकानां मुखे सन्ति, ते लौकिका: शब्दा:।यथा गौ: अश्व: पुरुष: इत्यादय:।ये च शब्दा वेदे सन्ति, ते वैदिका: शब्दा: यथा अग्निमीळे पुरोहितम्...।

(2) को नाम शब्द:?

प्रतीतपदार्थको लोके ध्वनि: शब्द इति उच्यते।यस्य ध्वने: अर्थस्य प्रतीति: भवति स: ध्वनि: शब्द:।

(3) किमर्थं शब्दानुशासनम्?(व्याकरणशास्र्तस्य प्रयोजनं किम्?)
रक्षा-ऊह-आगम-लघु-असन्देहा: प्रयोजनानि।एतदर्थं शब्दानुशासनम्।
रक्षा।
व्याकरणस्य अध्ययनेन वेदानां रक्षा भवति अत: व्याकरणम् अध्येयम्।

ऊह:।
वेदमन्त्रेषु सर्वेषां लिङ्गानां वचनानां साक्षाद् निर्देश: नास्ति।सन्दर्भानुसारं लिङ्गे वचने वा परिवर्तनं कृत्वा मन्त्र: पठनीय:।एतत् परिवर्तनं व्याकरणज्ञानं विना न शक्यम्।अत: व्याकरणम् अध्येयम्।अत्र एतद् उदाहरणम्- पुत्र: अपेक्षित: चेत् पुंसवनकर्मणि ...वीरं ददतु मे सुतम्। इत्यन्त: मन्त्र: वक्तव्य:।कन्या अपेक्षिता चेत् स्वतन्त्र: मन्त्र: नास्ति।एतस्मिन् मन्त्रे तथा परिवर्तनं स्वयं करणीयम् – वीरां ददतु मे सुताम् इति।एतदर्थं
सुतशब्दस्य सुतम् इति द्वितीयाविभक्तिरूपम् अस्ति,
सुतशब्दस्य स्त्रीलिङ्गं सुता भवति,
सुताशब्दस्य अपि अत्र द्वितीया विभक्ति: योजनीया,
सुता इति शब्दस्य द्वितीयायाम् एकवचनस्य रूपम् सुताम् इति भवति,
वीरशब्द: सुतशब्दस्य विशेषणम् अस्ति अत: सुतस्य स्थाने भिन्नलिङ्ग: शब्द: योजित: चेत् तदनुकूलं वीरशब्दस्य अपि लिङ्गपरिवर्तनं कार्यम्,
वीरशब्दस्य स्त्रीलिङगे द्वितीयायाम् एकवचनं वीराम् इति भवति,
इति एतावद् व्याकरणज्ञानम् आवश्यकम्।तद्विना ऊह: न शक्य:।एवमूहसामर्थ्यम् अस्माकं भवेदिति अध्येयं व्याकरणम्।

आगम:
आगम: नाम वेद:।वेदाज्ञा एवमस्ति यद् ब्राह्मणेन षडङ्गाध्ययनं फलाशारहितं करणीयम्।षडङ्गे व्याकरणस्य समावेश: अस्ति अत: अध्येयं व्याकरणम्।

लघु:।
भाषाध्ययनस्य व्याकरणमिति लघुमार्ग:।अतोऽध्येयं व्याकरणम्।

असन्देह:।
व्याकरणज्ञानेन विना वाक्यस्य सन्देहरहितं ज्ञानं न सम्भवति।अत: व्याकरणमध्येयम्।

व्याकरणाध्ययनस्य इमानि अन्यानि प्रयोजनानि सन्ति-
तेऽसुरा:।
असुरा: ‘हेऽरय: हेऽरय:’ इत्यस्य स्थाने ‘हेलय: हेलय:’ इति उक्तवन्त:।अशुद्धोच्चारणेन देवेभ्य: ते पराभूता: इति अस्ति पुराकथा।एवमस्माकमपि पराभव: न भवेदिति अध्येयं व्याकरणम्।

दुष्ट: शब्द:
दुष्ट: शब्द: स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह|स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतोऽपराधात्॥
कश्चिद् याजक: इन्द्रस्य घातकं पुत्रम् ऐच्छत्।घातक: नाम शत्रु:।तदर्थं स: यज्ञं चकार।यज्ञे ऋत्विग्भि: इन्द्रशत्रु: इति शब्दस्य उच्चार: तत्पुरुषसमासानुकूल: (इन्द्रस्य शत्रु:) न कृत:, बहुव्रीहि-समासानुकूल: (इन्द्र: शत्रु: यस्य स:) कृत:।पुत्र: जात:।स: अग्रे युद्धे इन्द्रेण घातित:।तथैव प्रार्थितम् आसीद् ऋत्विग्भि:।व्याकरणज्ञानाभावाद् याजक: वञ्चित:।एतादृशं वञ्चनम् अस्माकं न भवेदिति अध्येयं व्याकरणम्।

यदधीतम्-
यदधीतमविज्ञातं निगदेनैव शब्द्यते।अनग्नौ इव शुष्कैधो न तद् ज्वलति कर्हिचित्॥
अधीतं कण्ठगतम्। अधीतस्य अर्थबोध: नास्ति चेत् तत्सर्वं व्यर्थम्।काष्ठमस्ति परमग्नि: नास्ति चेत् ज्वलनं न भविष्यति, प्रकाश: न भविष्यति।एवम् अधीतमस्ति परं व्याकरणज्ञानं नास्ति चेत् अधीतस्यार्थप्रकाश: न भविष्यति। अधीतस्यार्थप्रकाश: भवेदिति अध्येयं व्याकरणम्।

यस्तु प्रयुङ्क्ते।–
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले।सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दै:॥
य: व्यवहारकाले शब्दान् योग्यरीत्या प्रयुङ्क्ते, स: जयं प्राप्नोति।य: अपशब्दान् प्रयुङ्क्ते, स: पापं प्राप्नोति।अस्माकं जय: भवेत्, न तु पापमिति अध्येयं व्याकरणम्।

अविद्वांस:।-
आचार्य: यदा आशीर्वचनं वदति, तदा शिष्यस्य नामोच्चारं करोति।तत्र नामोच्चारेऽन्तिम: स्वर: प्लुत: भवेदिति सङ्केतोऽस्ति।ये आचार्या: व्याकरणं न जानन्ति, ते स्वरं प्लुतं कर्तुं न शक्नुवन्ति।शिष्यवृन्दे एतादृशाम् आचार्याणाम् अवहेलना भवति।अस्माकमेवमवहेलना न भवेदिति अध्येयं व्याकरणम्।

विभक्तिं कुर्वन्ति।–
प्रयाजा नाम केचन मन्त्रा:।तेषामुच्चारणकाले सन्दर्भानुसारं विभक्ति: स्वयं योजनीया।व्याकरणज्ञानं विना एतद् न शक्यम्।अस्माकं स्वयं विभक्तिसामर्थ्यं भवेदिति अध्येयं व्याकरणम्।

यो वा इमाम्-
य: इमां वाणीं पदश: अक्षरश: स्वरश: च सम्यग्वदति, स: आर्त्वीजीन:।आर्त्वीजीन: नाम उत्तम: याजक:।वयमार्त्वीजीना: भवेम इति अध्येयं व्याकरणम्।

चत्वारि-
महत: देवस्य वर्णनमेवम्-
चत्वारि शृङ्गा त्रयो अस्य पादा:, द्वे शीर्षे सप्त हस्तासो अस्य।त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश॥
महत: देवस्य चत्वारि शृङ्गानि (नाम-आख्यात-उपसर्ग-निपाता:)
त्रय: पादा: (भूत-वर्तमान-भविष्यत्काला:)
द्वे शीर्षे (नित्य-अनित्यशब्दौ)
सप्त हस्ता: (सप्त विभक्तय:)
देव: त्रिषु स्थानेषु बद्ध: (उरसि कण्ठे शिरसि)
देव: मानवान् प्रविशति
स: महान् देव: अस्माकं शरीरं प्रविशेत् , तेन सहास्माकं साम्यं भवेद् इति अध्येयं व्याकरणम्।

उत त्व:
उत त्व: पश्यन् न ददर्श वाचम् उत त्व: शृण्वन् न शृणोत्येनाम्।उतो तु अस्मै तन्वं विसस्रे जाया इव पत्ये उशती सुवासा॥
अज्ञा: वाणीं शृण्वन्ति, न च सम्यक् शृण्वन्ति।ते वाणीं पश्यन्ति, न च सम्यक् पश्यन्ति(जानन्ति)।ज्ञानिभ्य: तु वाणी देवी स्वयं स्वरूपं विवृत्य दर्शयति। वाणीदेवता अस्मभ्यं स्वयं स्वरूपं दर्शयेदिति अध्येयं व्याकरणम्॥

सक्तुमिव
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत।अत्रा सखाय: सख्यानि जानते भद्रा एषां लक्ष्मी: निहिता अधिवाचि॥
मोक्षमार्गे वैयाकरणा: बुद्धिरूपचालन्या वाणीं शुद्धां कृत्वा परस्परं स्नेहं दृढं कुर्वन्ति।एतेषां वाण्यां कल्याणकारिणी लक्ष्मी: निवसति।अस्माकमपि वाचि लक्ष्मी: निवसेदिति अध्येयं व्याकरणम्।

सारस्वतीम्।–
आहिताग्ने: मुखाद्यदि अपशब्द: नि:सरति, तर्हि तेन प्रायश्चित्तं करणीयम्।तदर्थं स: सारस्वतीम् इष्टिं कुर्यादिति याज्ञिका: वदन्ति।एष: प्रायश्चित्तप्रसङ्ग: अस्माकं न भवेदिति अध्येयं व्याकरणम्।

दशम्यां पुत्रस्य।–
याज्ञिका: एवं वदन्ति यद् जातस्य दशमदिनाद् ऊर्ध्वं पुत्रस्य नामकरणसंस्कार: करणीय:। नाम एवं भवेत्- आदिममक्षरं घोषव्यञ्जनं स्यात्।मध्यममक्षरम् अन्त:स्थव्यञ्जनं स्यात्,नाम कृदन्तं स्यात्, तद्धितान्तं न स्यात्, वृद्धं न स्यात्। एतत् सर्वं व्याकरणज्ञानं विना न शक्यमत: अध्येयं व्याकरणम्।

सुदेवोऽसि-
सुदेवोऽसि वरुण यस्य ते सप्त सिन्धव:।अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव॥
वरुणदेव: सुदेव: अस्ति यत: यथा (अग्नि:)सुषिरां सुन्दरमूर्तिं तथा सप्तविभक्तय: तस्य तालुप्रदेशं (काकुदं) सततं शुद्धं कुर्वन्ति।वयमपि सत्यदेवा: भवेम इति अध्येयं व्याकरणम्।

(4) केभ्य: एतानि व्याकरणस्य प्रयोजनानि प्रतिपाद्यन्ते?
ये खलु वेदाध्ययनं कृत्वा अध्ययनं समाप्तमिति मन्यन्ते, व्याकरणस्य ज्ञानं निरर्थकं मन्यन्ते, तेषां कृते व्याकरणस्य एतानि प्रयोजनानि प्रतिपाद्यन्ते।

(5) शब्दानुशासनं कथम्? शब्दोपदेशेन अथवा अपशब्दोपदेशेन?
शब्दानुशासनं शब्दोपदेशेन क्रियते।अयं लघु: मार्ग:।एकस्य एकस्य शब्दस्य बहव: अपभ्रंशा: सम्भवन्ति अत: अपशब्दोपदेश: दीर्घ: मार्ग:।

(6) प्रतिपदं शब्दानुशासनं भविष्यति वा?
न। तथा हि सति सकलम् अपि आयु: अध्ययनेन एव यातं स्यात्।अत: उत्सर्गापवादाभ्याम् उपदेश: क्रियते।यथा-
कर्मण्यण् ३.२.१ – उत्सर्ग:
आतोऽनुपसर्गे क:।३.२.३- अपवाद:

(7) शब्द: नित्य: अथवा कार्य:?
शब्द: नित्य: भवतु अथवा कार्य:।तस्य उपदेश: अवश्यं करणीय:।अस्तु, पाणिनिमतेन शब्द: नित्य:।

(8) यदि शब्द: नित्य: ,तस्य अर्थ: नित्य: तयो: मिथ: सम्बन्ध: नित्य: तर्हि व्याकरणशास्त्रं किं करोति?
शास्त्रं धर्मनियमं करोति।कस्य शब्दस्य प्रयोगेण धर्म: भवति, कस्य प्रयोगेण अधर्म: इति निर्धारणं शास्त्रं करोति।एष: शब्द:।एतस्य प्रयोगेण अभ्युदय:। एष: अपशब्द:।एतस्य प्रयोगेण अभ्युदयहानि: इति अयं धर्मनियम:।

(9)  अप्रयुक्तानां शब्दानां साधुत्वनिर्धारणं कथं भवति?यथा ऊष तेर पेच इत्यादीनाम्।
भवान् एतान् शब्दान् मुखेन वदति, तथापि तान् ‘अप्रयुक्तान्’ इति वदति इति व्याघातदोष: अयम्।ऊष तेर इत्यादीनाम् अर्था: यदा विवक्षिता:, तदा तेषां प्रयोगा: भवन्ति एव।तत्पर्यायाणां प्रयोगे सति एतेषां प्रयोग: न स्यात्। तत्तु स्वाभाविकमेव।यथा ऊष ऊषिता:।तेर तीर्णा:।चक्रे कृतवन्ता:।पेच पक्ववन्त:।
यद्यपि ऊष इत्यादय: शब्दा: प्रचारे न सन्ति, तथापि व्याकरणशास्त्रे तेषां सिद्धि: अवश्यं दर्शनीया।अत्रेदमुदाहरणम्-शतवर्षं यावत् कश्चिद् यज्ञ: प्रवर्तते। तादृशं यज्ञम् इदानीं केऽपि न कुर्वन्ति।तथापि तस्य वर्णनं याज्ञिके भवति। तथापि विरलप्रचाराणां शब्दानामपि सिद्धि: व्याकरणशास्त्रे वक्तव्या।
‘अप्रयुक्ता:’ इति येषां विषये भवान् वदति, ते कदाचित् देशान्तरे ग्रन्थान्तरे वा प्रयुक्ता: स्यु:।यदि तेषाम् उपलब्धौ महान् प्रयत्न: भवति, तर्हि तेषाम् अपि प्रयोगा: प्राप्यन्ते। तादृशं प्रयत्नम् अकृत्वा अकस्माद् ‘अमुकशब्दस्य प्रयोग: न दृश्यते’ इति निर्णयवचनं नोचितम्।

(10)  शब्दानां ज्ञाने धर्म: उत प्रयोगे?
ज्ञानपूर्वके प्रयोगे धर्म:।

(11)  व्याकरणं नाम किम्? सूत्रम् अथवा शब्द:?
सूत्रं तथा तेन साधित: शब्द: इति एतद् द्वयमपि व्याकरणसंज्ञायां समाविष्टम्।
लक्ष्यं नाम शब्द:।लक्षणं नाम सूत्रम्।
लक्ष्यलक्षणे व्याकरणम्।

(12) वर्णानाम् उपदेश: किमर्थम्?
अ) वृत्तिसमवायार्थ: उपदेश:
वृत्ति: नाम शास्त्रस्य प्रवृत्ति:।शास्त्रस्य प्रवृत्ति: भवतु एतदर्थं क्रमेण अक्षरयोजनम् आवश्यकम्।

आ) अनुबन्धकरणार्थ: उपदेश:
उपदेशस्य आधारेण अनुबन्ध: क्रियते।

इ) इष्टबुद्ध्यर्थ: उपदेश:
आचार्याणाम् इष्टा: (अभिप्रेता:) वर्णा: के इति स्पष्टीकर्तुं वर्णोपदेश: क्रियते।

(13) यदि इष्टवर्णानां स्पष्टज्ञानाय वर्णोपदेश: तर्हि उदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानां स्वतन्त्रोपदेश: किमर्थं नास्ति?
अ-वर्णे उपदिष्टे सति अ-कारस्य सर्वेषां भेदानां तत्र ग्रहणं भवति अत: स्वतन्त्रोपदेश: न क्रियते।

(14)  अकारस्य उच्चारणेन अकारस्य सर्वे भेदा: तत्र गृहीता: चेत् अकारस्य सदोषा: अपि उच्चारा: गृहीता: वा?
न।गर्गादय: पाठा: ग्रन्थे सन्ति।तत्र सर्वेषां वर्णानां शुद्धमेव उच्चारणम् आचार्येण कृतम्।अत: सदोषोच्चारस्य ग्रहणाय अवसर: एव नास्ति।

(15)  उच्चारदोषाणामपि उपदेश: किमर्थं न क्रियते? इत्संज्ञकानां स्थाने तेषां योजना शक्या।
सत्यमेतत् ।तथापि पाणिने: एतद् नाभिमतम्।अत: उच्चारदोषाणाम् उपदेश: मास्तु।

No comments:

Post a Comment