Tuesday, May 26, 2020

चित्रकाव्यम्

हरिच्छ्वेतच्छटाकाश!
हरिच्छ्वेतपटाश्रित:।
हरित्पर्णतरुश्रीक-
श्श्वेतपुष्पसुखाश्रित:।।


स्वप्नलोके नीललोके वा बम्भ्रम्यते
सायन्तने नीलाब्धितटे वा संवर्त्यते
सौभाग्यलब्धक्षणैरेवं मानुषै: क्वचित्
जीवितेऽस्मिन् रम्यकाम्यं संलभ्यते




No comments:

Post a Comment